ॐ
om
शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।
शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥1॥
शृङ्ग-क्ष्माभृन्-निवासे S/1 शुक-मुख-मुनिभिः 3/3 सेव्यमानाङ्घ्रिपद्मे S/1 स्वाङ्ग-च्छाया-विधूतामृतकर-सुरराड्-वाहने S/1 वाक्-सवित्रि S/1 । शम्भु-श्रीनाथ-मुख्यामरवर-निकरैः 3/3 मोदतः 0 पूज्यमाने S/1 विद्याम् 2/1 शुद्धाम् 2/1 च 0 बुद्धिम् 2/1 कमलाजदयिते S/1 सत्वरम् 0 देहि II/1 मह्यम् 4/1 ॥
शृङ्ग-क्ष्माभृन्-निवासे S/1
क्ष्मा भूमिः, क्ष्मां बिभर्ति इति क्ष्माभृत् गिरिः, शृङ्गः इति क्ष्माभृत् शृङ्गक्ष्माभृत् (शृङ्गेरि), शृङ्गक्ष्माभृति निवसति शृङ्गक्ष्माभृन्निवासा शारदा देवी ।
शुक-मुख-मुनिभिः 3/3 सेव्यमानाङ्घ्रिपद्मे S/1
स्वाङ्ग-च्छाया-विधूतामृतकर-सुरराड्-वाहने S/1
वाक्-सवित्रि S/1
शम्भु-श्रीनाथ-मुख्यामरवर-निकरैः 3/3 मोदतः 0 पूज्यमाने S/1
कमलाजदयिते S/1
विद्याम् 2/1 शुद्धाम् 2/1 बुद्धिम् 2/1 च 0 सत्वरम् 0 मह्यम् 4/1 देहि II/1 ॥
कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्मप्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङ्गशैले ।
संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा (विद्यां ...) ॥2॥
कल्प-आदौ 7/1 पार्वती-ईशः 1/1 प्रवर-सुर-गण-प्रार्थितः 1/1 श्रौत-वर्त्म-प्राबल्यम् 2/1 नेतुकामः 1/1 यति-वर-वपुषा 3/1 आगत्य 0 याम् 2/1 शृङ्ग-शैले 7/1 । संस्थाप्य 0 आर्चाम् 2/1 प्रचक्रे III/1 बहु-विध-नुतिभिः 3/3 सा 1/1 त्वम् 1/1 इन्दु-अर्ध-चूडा 1/1 ॥2॥
पापौघं ध्वंसयित्वा बहुजनिरचितं किञ्च पुण्यालिमारात् सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।
देवाचार्यद्विजातिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥3॥
पाप-औघम् 2/1 ध्वंसयित्वा 0 बहु-जनि-रचितम् 2/1 किञ्च 0 पुण्य-आलिम् 2/1 आरात् 0 सम्पाद्य 0 आस्तिक्य-बुद्धिम् 2/1 श्रुति-गुरु-वचनेषु 7/3 आदरम् 2/1 भक्ति-दार्ढ्यम् 2/1 । देव-आचार्य-द्विजातिषु 7/3 अपि 0 मनु-निवहे 7/1 (वेदमन्त्रे) तावकीने 7/1 नितान्तम् 2/1 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥3॥
बहु-जनि-रचितम् 2/1 पाप-औघम् 2/1 ध्वंसयित्वा 0
किञ्च 0 पुण्य-आलिम् 2/1 आरात् 0 सम्पाद्य 0
आस्तिक्य-बुद्धिम् 2/1, श्रुति-गुरु-वचनेषु 7/3 आदरम् 2/1, देव-आचार्य-द्विजातिषु 7/3 अपि 0 भक्ति-दार्ढ्यम् 2/1 । तावकीने 7/1 मनु-निवहे 7/1 (वेदमन्त्रे) नितान्तम् 2/1
विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥3॥
विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडवधिरमुखेभ्योऽपि शीग्रं नतेभ्यः ।
कामादीनान्तरान् मत्सहजरिपुवरान् देवि निर्मूल्य वेगाद् विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥4॥
विद्या-मुद्रा-अक्षमाला-अमृतघट-विलसत्-पाणि-पाथोजजाले S/1 विद्या-दान-प्रवीणे S/1 जड-वधिर-मुखेभ्यः 4/3 अपि 0 शीग्रम् 0 नतेभ्यः 4/3 । कामादीन् 2/3 अन्तरान् 2/3 मत्-सहज-रिपु-वरान् 2/3 देवि S/1 निर्मूल्य 0 वेगाद् 0 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥4॥
कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।
सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥5॥
कर्मसु 7/3 आत्म-उचितेषु 7/3 स्थिरतर-धिषणाम् 2/1 देह-दार्ढ्यम् 2/1 तदर्थम् 2/1 दीर्घम् 2/1 च 0 आयुः 2/1 यशः 2/1 च 0 त्रिभुवन-विदितम् 2/1 पाप-मार्गात् 5/1 विरक्तिम् 2/1 । सत्सङ्गम् 2/1 सत्-कथायाः 6/1 श्रवणम् 2/1 अपि 0 सदा 0 देवि S/1 दत्वा 0 कृप-अब्धे S/1 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥5॥
मातस्त्वत्पादपद्मं न विधिकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान् दिव्यपद्यैः ।
मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥6॥
मातः S/1 त्वत्-पाद-पद्मम् 1/1 न 0 विधिकुसुमैः 3/3 पूजितम् 1/1 जातु 0 भक्त्या 3/1 गातुम् 0 न 0 एव 0 अहम् 1/1 ईशे I/1 जड-मतिः 1/1 अलसः 1/1 त्वद्-गुणान् 2/3 दिव्य-पद्यैः 3/3 । मूके 7/1 सेवा-विहीने 7/1 अपि 0 अनुपम-करुणाम् 2/1 अर्भके 7/1 अम्बा 1/1 इव 0 कृत्वा 0 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥6॥
शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥7॥
शान्ति-आद्याः 2/3 सम्पदः 2/3 मे 6/1 वितर II/1 शुभकरीः 2/3 नित्य-तद्भिन्न-बोधम् 2/1 वैराग्यम् 2/1 मोक्ष-वाञ्छाम् 2/1 अपि 0 लघु 0 कलय II/1 श्री-शिवा-सेव्यमाने S/1 । विद्यातीर्थ-आदि-योगि-प्रवर-कर-सरोजात-सम्पूजित-अङ्घ्रे S/1 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥7॥
सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥8॥
सत्-चित्-रूप-आत्मनः 6/1 मे 6/1 श्रुति-मनन-निदिध्यासनानि 2/3 आशु 0 मातः S/1 सम्पाद्य 0 स्व-अन्तम् 2/1 एतत्-रुचि-युतम् 2/1 अनिशम् 0 निर्विकल्पे 7/1 समाधौ 7/1 । तुङ्गा-तीर-अङ्क-राजत्-वर-गृह-विलसत्-चक्र-राज-आसनस्थे S/1 विद्यां शुद्धां च बुद्धिं कमलाजदयिते सत्वरं देहि मह्यम् ॥8॥