東京と広島の月1ヴェーダーンタ勉強会で勉強している、
ヴィシュヌ・サハッスラナーマ・ストーットラムのディヤーナ・シュローカについて、
パダッチェーダ(サンディを外して単語ごとに区切る)と、
アンヴァヤ(単語を意味に沿って文章として繋げなおす)を、
スワミジの本にある英訳に、各単語を当てたものを添えて、
パパっと30分ほどで仕上げてみました。
क्षीरोदन्वत्प्रदेशे
शुचिमणिविलसत्सैकते मौक्तिकानां मालाकॢप्तासनस्थः
स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैरानन्दी
नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥
[पदच्छेदः]
क्षीर-उदन्वत्-प्रदेशे 7/1 शुचिमणि-विलसत्-सैकते
7/1 मौक्तिकानाम् 6/3 माला-कॢप्त-आसनस्थः 1/1
स्फटिक-मणि-निभैः 3/3 मौक्तिकैः 3/3 मण्डित-अङ्गः 1/1
। शुभ्रैः 3/3
अभ्रैः 3/3 अदभ्रैः 3/3 उपरि-विरचितैः 3/3 मुक्त-पीयूष-वर्षैः
3/3 अनन्दी 1/1 नः 2/3 पुनीयात् III/1 अरि-नलिन-गदा-शङ्ख-पाणिः 1/1 मुकुन्दः 1/1 ॥
[अन्वयः]
अनन्दी अरि-नलिन-गदा-शङ्ख-पाणिः
मुकुन्दः (तस्य) उपरि-विरचितैः शुभ्रैः अदभ्रैः मुक्त-पीयूष-वर्षैः अभ्रैः (सह) नः
पुनीयात् ।
(सः कीदृशः?)
शुचिमणि-विलसत्-सैकते
क्षीर-उदन्वत्-प्रदेशे मौक्तिकानाम् माला-कॢप्त-आसनस्थः;
स्फटिक-मणि-निभैः मौक्तिकैः
मण्डित-अङ्गः ।
May that Lord Mukunda (मुकुन्दः), who is happy being himself (अनन्दी),
who has in His hands the wheel, the lotus, the mace and the conch
(अरि-नलिन-गदा-शङ्ख-पाणिः), whose limbs are decked (मण्डित-अङ्गः)
with pearls (मौक्तिकैः) which are as clear as
crystal (स्फटिक-मणि-निभैः), who is seated on an āsana,
embellished by laces (माला-कॢप्त-आसनस्थः) of pearls (मौक्तिकानाम्), in the abode of the milky ocean
(क्षीर-उदन्वत्-प्रदेशे), with the sand shining, like the pure precious
stones (शुचिमणि-विलसत्-सैकते), under
a canopy (उपरि-विरचितैः) of white (शुभ्रैः),
water-laden (अदभ्रैः) clouds (अभ्रैः)
pouring the rain of amṛta (मुक्त-पीयूष-वर्षैः) – purify (पुनीयात्) us (नः).
भूः पादौ यस्य
नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य
वास्तेयमब्धिः ।
अन्तस्स्थं यस्य
विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैश्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं
नमामि ॥
[पदच्छेदः]
भूः 1/1
पादौ 1/2 यस्य 6/1 नाभिः 1/1 वियद् 1/1
असुः 1/1 अनिलः 1/1 चन्द्र-सूर्यौ 1/2 च 0
नेत्रे 1/2 कर्णौ 1/2 आशाः 1/3 शिरः 1/1
द्यौः 1/1 मुखम् 1/1 अपि 0 दहनः 1/1
यस्य 6/1 वास्तेयम् 1/1 अब्धिः 1/1 । अन्तस्स्थम् 1/1
यस्य 6/1 विश्वम् 1/1 सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यैः
3/3 चित्रम् 1/1 रंरम्यते III/1 तम् 2/1 त्रिभुवन-वपुषम् 2/1 विष्णुम्
2/1 ईशम् 2/1 नमामि I/1 ॥
[अन्वयः]
यस्य (विष्णोः) पादौ
भूः, नाभिः वियद्, असुः अनिलः, नेत्रे चन्द्र-सूर्यौ च, कर्णौ आशाः, शिरः द्यौः,
मुखम् अपि दहनः, यस्य (विष्णोः) वास्तेयम् अब्धिः;
यस्य (विष्णोः) अन्तस्स्थम्
सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यैः चित्रम् विश्वम् रंरम्यते;
तम् त्रिभुवन-वपुषम्
ईशम् विष्णुम् नमामि
I salute (नमामि)
the Lord (ईशम्) Viṣṇu (विष्णुम्), who
is in the form of the three worlds (त्रिभुवन-वपुषम्); the
one for whom (यस्य) the earth (भूः)
is the feet (पादौ), they sky (वियद्)
is the navel (नाभिः), vāyu (अनिलः) is
the breath (असुः), the sun and the moon
(चन्द्र-सूर्यौ) are the two eyes (नेत्रे), the
quarters (आशाः) are the ears (कर्णौ),
the heaven (द्यौः) is the head (शिरः),
fire (दहनः) is the mouth (मुखम्), the
ocean (अब्धिः) is the bladder (वास्तेयम्);
this entire variegated (चित्रम्) universe (विश्वम्)
- consisting of the devas, human
beings, birds, cows, reptiles, celestials, and demons (सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यैः)
- is present within (अन्तस्स्थम्) Him (यस्य) and dancing
beautifully (रंरम्यते) within Him. To that
(तम्) Lord Vāsudeva, my salutations.